Monday 21 November 2011

SANSKRIT

अर्धवार्षिकमूल्यनिर्णयपरीक्षा - यु. पि. विभागस्य पाठसारांशः (Syllabus)

पञ्चमीकक्ष्या

पाठः - ५ – काको रटति ।
पाठः - - वर्षानृत्तम् ।
पाठः - - जलोपप्लवः ।
पाठः - ८ – न विरोधः कदाचन ।
पाठः - ९ – मङ्गलानि भवन्तु ।
पाठः - १० – मानवाः सर्वे समानाः ।
पाठः - ११ – शीलं सर्वत्र वै धनम् ।

९० % प्रश्नाः एतान् पाठान् अधिकृत्य भवेत् ।
१० % प्रश्नाः पादवार्षिकस्थान् पाठान् अधिकृत्य भवेत्

षष्ठी कक्ष्या

पाठः - ४ – जीवामृतम् ।
पाठः - ५ – सुजला सुरजा ।
पाठः - ६ – केरलव्यासः ।
पाठः - ७ – वदतु भवान् ।
पाठः - ८ – कर्म एव धर्मः ।

९० % प्रश्नाः एतान् पाठान् अधिकृत्य भवेत् ।
१० % प्रश्नाः पादवार्षिकस्थान् पाठान् अधिकृत्य भवेत् ।

सप्तमी कक्ष्या

पाठः - ६ – प्राणाः लोकहिताय ।
पाठः - ७ – हन्त ! हन्त ! महतामुदारता ।
पाठः - ८ – आयान्तु सुहृदः ।
पाठः - ९ – प्रयत्ने विनोदः ।
पाठः - १० – प्रियसखि ।
पाठः - ११ – वयं उड्डीयामहे ।
पाठः - १२ – हिताशी वर्धते चिरम् ।

९० % प्रश्नाः एतान् पाठान् अधिकृत्य भवेत् ।
१० % प्रश्नाः पादवार्षिकस्थान् पाठान् अधिकृत्य भवेत् ।

पम्पानदी - संस्कृतह्रस्वचित्रम्

निर्माणम्
डि. . एम्. यु. पि. एस्. काञ्ञिरप्पळ्ळी
आमुखम्, अन्तर्जालोपारोपणञ्च
डो. विजय् कुमार् एम्.
केरलेषु स्यन्दमाना पुण्यपुरातना नदी भवति पम्पा । इटुक्कि जिल्लायां वर्तमानात् पीरुमेट् इति स्थानात् उद्भूताः तिस्रः जलस्रोताः मिलित्वा नदीयं संभूयते । अनेकैः पोषकनदीभिः युक्ता इयं प्रतीच्यां दिशि प्रसृता बहुभिः शाखाभिः पृथक्कृता भवति । तासु प्रधाना शाखा कुट्टनाट् प्रदेशात् उत्तरस्यां दिशि प्रस्थिता सति वेम्पनाट्ट् इति प्रसिद्धे अम्बुचत्वरे (तटाके) लीयते। पम्पायाः बहुभिः शाखाभिः युक्ता भवति 'केरलस्य नेल्लरा' इति प्रसिद्धः कुट्टनाट् देशः । शबरिगिरेः अधित्यकां परिवृत्य स्यन्दमानायाः अस्याः तीरे बहूनि शास्ताक्षेत्राणि सन्ति । नदीयं पापनाशिनी इत्यपि प्रथिता भवति । हैन्दवधर्मानुसारिणां पुण्यनदी भवति इयम् । सीतामन्विष्य प्रस्थितयोः रामलक्ष्मणयोः आतिथ्यं कृतवत्याः शबर्याः आश्रमः अस्याः तीरे आसीदिति प्रसिद्धिः । प्रतिवर्षं शबरिगिरीशं वन्दितुं प्रस्थिताः अनेककोटिभक्ताः अस्यां नद्यां स्नात्वा एव दर्शनं करोति ।
कोट्टयम् जिल्लायां काञ्ञिरप्पळ्ळि देशे वर्तमान मुट्टप्पळ्ळि डि. . एम्. यु. पि. एस् छात्रैः अध्यापकैः च पम्पानदीमधिकृत्य निर्मितं ह्रस्वचित्रं अत्र आस्वादकानां संस्कृतपिपठिषूणां च पुरतः दीयते । पम्पायाः सौन्दर्यं, तस्याः निर्मलता, तस्याः तटे वर्तमानानि देवालयानि, मतसम्मेलनानि, भूप्रकृतयः इत्यादीनां सर्वेषामास्वादनाय अनुवाचकान् सादरं आमन्त्रयामि । अस्य ह्रस्वचित्रस्य निर्माणार्थं प्रयत्नं कृतवद्भ्यः डि. . एम्. यु. पि. एस् अध्यापकेभ्यः छात्रेभ्यश्च संस्कृतलोकस्य सादरधन्यवादाः ।
प्रथमो भागः
video
द्वितीयो भागः
video
तृतीयो भागः
चतुर्थो भागः
पञ्चमो भागः

षष्ठो भागः
video

सप्तमो भागः

video

अष्टमो भागः

video

नवमो भागः

video

संस्थाः ध्येयवाक्यानि च

डो. विजय् कुमार् एम्
भारतीयवायुसेनायाः ध्येयवाक्यं भवति नभः स्पृशं दीप्तम् इति भगवद्गीतायां एकादशेध्याये चतुर्विंशतितमाच्छ्लोकाद् उद्धृतमिदं वाक्यम् द्युः स्पर्शं प्रज्वलितम् इत्यर्थः




बृहदारण्यकोपनिषदि वर्तमानः मन्त्रः भवति असतो मा सद्गमय (. . २८) इति । सि. बि. एस्. सि. संस्थायाः ध्येयवाक्यं भवति अयं मन्त्रः।



तैत्तिरीयोपनिषदि
वर्तमानः मन्त्रः भवति शं नो वरुण
(, , ) इति वरुणः अस्मभ्यं मङ्गलं प्रददातु इत्यर्थः

भारतीयजीवन्बीमानिगमस्य ध्येयवाक्यं भवति योगक्षेमं वहाम्यहम् इत्येतत् । भगवद्गीतायां नवमेध्याये द्वाविंशतितमे श्लोके वर्तते योगक्षेमं वहाम्यहं इति वचनम् । भगवद्भक्तानां योगक्षेमं भगवानेव करोति इति श्लोकस्यार्थः ।





सत्यमेव जयते इति मन्त्रः मुण्डकोपनिषदि तृतीयाध्यये प्रथमखण्डे वर्तते (. . )।सत्यस्य महिमा एव अनेन प्रस्तूयते ।






दिशानिर्णयः - जियोजिब्राद्वारा

डो. विजय् कुमार् एम्.

वर्गे ऐ. सि. टि साध्यतायाः उपयोगः सम्यक् कर्तुं शक्यः पाठभागः भवति दिशानिर्णयः । प्रथमं तावत् जियोजिब्रा नाम गणितजालकं उन्मीलयितव्यम् । तदर्थं मार्गः एवं भवति - Applications – education – Geogebra. एवं कृते सति अधो दत्तं जालकं उन्मीलितं भवेत् -











अस्मिन् जालके अधोनिर्दिष्टे षष्ठोपजालके क्लिक् करणीयम् ।










तदा बहवः निर्देशाः अधोधः आगच्छेत्। तेषु
circle with centre radious इति निर्देशे क्लिक् कर्तव्यम् । तदनन्तरं कार्यपत्रे (work sheet) यत्रकुत्रापि क्लिक् कर्तव्यम् । तदानीं अधोनिर्दिष्टं समादेशपेटकं (command box) आगच्छेत् ।











तस्मिन् वृत्तस्य आरं कियन्मात्रमावश्यकम् इति टंकयतु यदि इति निर्देशः दीयते तर्हि एतादृशमेकं वृत्तं द्रष्टुं शक्यते।

चाक्यार्कूत्त् - अवतरणशैली

डो. विजय् कुमार् एम्.

चाक्यार्कूत्त् कलारुपे चाक्यारः संस्कृतश्लोकानामर्थं सरसया रीत्या कैरल्यां विवृणोति । तत्तु न केवलं अन्वयार्थप्रकाशनमेव अथवा वाच्यार्थप्रकाशनमेव अपि तु विस्तृतया, ललितया, सुव्यक्ततया च रीत्या कथाकथनमेव । चाक्यारेण वक्ष्यमाणानि कथासन्दर्भानि अस्माकं पुरतः एव संभूयते इति प्रतीतिम् इदं कलारूपं जनयति ।अत्र मेल्पुत्तूर् नारायणभट्टपादविरचितात् कौन्तेयाष्टकम् अथवा पात्रचरितं नामक प्रबन्धात् उद्धृतः प्रथमः श्लोकः उदाहरणत्वेन दीयते ।
എങ്കിലോ പണ്ട് ഭക്തവത്സലനായിരിക്കുന്ന ഭഗവാന്‍ ശ്രീകൃഷ്ണന്റെ പരമഭക്തന്മാരായിരിക്കുന്ന പാണ്ഡവന്മാര്‍ കള്ളച്ചൂതില്‍ പരാജിതന്മാരായി വനവാസത്തിനായിക്കൊണ്ടു പുറപ്പെട്ട സമയത്ത് ഒരുമിച്ചു പുറപ്പെട്ടിരിക്കുന്ന സ്നാതകബ്രാഹ്മണന്മാരോടും ഋഷീശ്വരന്മാരോടുംകൂടെ പുറപ്പെട്ട് വനപ്രദേശത്തില്‍ സഞ്ചരിക്കുന്ന സമയത്ത് ധര്‍മപുത്രര് ഒരുമിച്ചുപോന്നിരിക്കുന്ന ബ്രാഹ്മണന്മാര് ക്ഷുത്പിപാസാര്‍ദ്ദിതന്മാരായി കണ്ട സമയത്തിങ്കല്‍ ആദിത്യനെ സേവിച്ച സമയത്തിങ്കല്‍ ആദിത്യന്‍ പ്രസാദിച്ചുകൊടുത്തിരിക്കുന്ന അദ്ഭുതപാത്രത്തില്‍നിന്ന് അദ്ഭുതങ്ങളായിരിക്കുന്ന അദ്ഭുതപാദാര്‍ഥങ്ങളെ അനുഭവിച്ച് സുഖമായിട്ടധിവസിക്കുന്ന കാലത്ത് ഹസ്തിനപുരിയില്‍ ദുര്യോധനന്റെ അവസ്ഥയാകട്ടെ -

കൌന്തേയാനവബുദ്ധ്യ സിദ്ധ്യദശനോപായാന്‍ കുരൂണാം പതിഃ
ശ്രീദുര്‍വാസസമേകദാ കുടിലധീരാമന്ത്ര്യ നാഗാഹ്വയേ.
ശിഷ്യാണാമയുതേന സാര്‍ദ്ധമധികപ്രാജ്യൈഃ സഭോജ്യാദിഭിഃ
പൂജ്യം തം സമഭീഭവത് സ ച മുനിസ്തുഷ്ടോ വരം പൃഷ്ടവാന്‍.

കുടിലധീഃ കുരൂണാം പതിഃ - കുടിലധീയായിരിക്കുന്ന കുരുക്കളുടെ പതിയാകട്ടെ, മഹാരാജാവ് ദുര്യോധനനാകട്ടെ, കൌന്തേയാന്‍ സിദ്ധ്യദശനോപായാന്‍ അവബുദ്ധ്യ – കൌന്തേയന്മാരെ സിദ്ധ്യത്തായിരിക്കുന്ന അശനോപായന്മാരായിട്ട് അറിഞ്ഞു. ഈ പാണ്ഡവന്മാര് വനവാസത്തിന് പോയതിനുശേഷം അവരുടെ പരമാര്‍ഥം അറിയുവാന്‍ ചാരന്മാരെ അയച്ച് അവര്‍പറഞ്ഞറിഞ്ഞു - പാണ്ഡവന്മാര്‍ വനപ്രദേശത്തില്‍ ചെന്നതിനുശേഷം ധര്‍മപുത്രര് ആദിത്യനെ സേവിച്ചു. ആദിത്യന്‍ പ്രസാദിച്ച് ഒരു പാത്രം കൊടുത്തു. അതില്‍നിന്ന് ഭക്ഷണസാധനങ്ങള്‍ എന്നുതന്നെയല്ല എന്തുസാധനം വേണമെങ്കിലും ലഭിക്കും. പാഞ്ചാലിയുടെ ഭക്ഷണം കഴിഞ്ഞാല്‍ പിന്നെ അന്ന് ഒന്നുമുണ്ടാവുകയില്ല എന്ന് ആദിത്യന്‍ അനുഗ്രഹിച്ചപ്പോള്‍ തന്നെ പറഞ്ഞിട്ടുണ്ടെന്നും ചാരന്മാര്‍ വഴി അറിഞ്ഞു. എന്നിട്ടും വിശ്വാസം വരാഞ്ഞ് അഗ്രശാലയില്‍ ചെന്ന് അവിടെ കൂടിയിരിക്കുന്ന ബ്രാഹ്മണന്മാരില്‍നിന്നും അറിഞ്ഞപ്പോള്‍ അത് നശിപ്പിക്കുവാന്‍ എന്താണ് മാര്‍ഗ്ഗമെന്നാലോചിച്ച് ശകുനിയുടെ സമീപത്തില്‍ ചെന്നു.

महच्चरितमाला १०. - शङ्कराचार्यः


औपनिषदधर्मस्य महत्वं संस्थापयितुं भारतीयसंस्कृतिं परिपोषयितुं च ज्ञनप्रदीपं प्रोज्वलयन् कश्चित् महानुभावः केरलदेशे कालटिग्रामे जनिमलभत । स एव दार्शनिकः जगद्गुरुः आदिशङ्करः ।
कर्मबहुले द्वात्रिंशद्वर्षपरिमिते स्वजीविते आसेतुहिमाचलं पद्भ्यामेव चरन् सः औपनिषदं धर्मं प्रचारयामास । गुरोः जीवितकालमधिकृत्य विभिन्नाः अभिप्रायाः वर्तन्ते । तथापि सोयं जगद्गुरुः क्रिस्तोः परं अष्टाशीत्यधिकसप्तशततमवर्षादारभ्य विंशत्यधिकाष्टशततमपर्यन्तं (७८०-८२०) जीवितं निनायेति इतिहासविदः वदन्ति ।
बाल्ये एव अनितरसाधारणीं धिषणां शास्त्रग्रहणनैपुणीं च प्रदर्शितवानयं बालः अष्टवर्षवयाः एव वेदवेदाङ्गपारङ्गतोभूत् । मातुरनुमत्या संन्यासं स्वीकृत्य प्रस्थितः शङ्करोयं नर्मदानदीतीरे गोविन्दगुरोः शिष्यत्वमलभत। तस्य अनुपमं बुद्धिवैभवं प्रत्यभिज्ञाय आचार्यः तं प्रस्थानत्रयस्य (ब्रह्मसूत्रम्, भगवद्गीता, उपनिषद्)भाष्यविरचनाय न्ययुङ्क्त।
ज्ञानवृद्धोयं बालसन्यासी वाराणस्यां आचार्यपदवीमविन्दत । सः षड्दर्शनेषु उत्तरमीमांसान्तर्गतं अद्वैतमेव मुख्यमिति व्यवस्थापयामास । पूर्वमीमांसकं मण्डनमिश्रं वादे विजित्य जगद्गुरुः इति प्रथामविन्दत । तं च सुरेश्वरनाम्ना स्वशिष्यं चाकरोत् । सर्वशास्त्रपारङ्गतः साहित्यरसिकश्चायं जगद्गुरुः पण्डितराजः, कविकुलचूडामणिः इति च गीयते । आचार्यरचिताः ग्रन्थाः भाष्यम् - प्रकरणम् - स्तोत्रम् इति त्रिधा विभक्ताः ।

महच्चरितमाला ९. - महाकवि वळ्ळत्तोळ्


कैरळीसाहित्यमण्डले आधुनिककवित्रयं इति प्रथिता भवन्ति उळ्ळूर्, आशान्, वळ्ळत्तोळ् महाभागाः । तेषु अन्यतमः स्वातन्त्र्यसमरसेनानीः सांस्कारिकनायकश्चासीत् महाकविः वळ्ळत्तोळ् नारायणमेनोन् महाशयाः ।सः पोन्नानी समीपस्थे चेन्नरग्रामे साहितीसपर्यापरे वळ्ळत्तोळ् गृहे १८७८ तमे क्रिस्त्वब्दे लब्धजन्माभूत्। मल्लिश्शेरि दामोदरन् इळयत् तथा कोण्टयूर् कुट्टिप्पारु अम्मा च तस्य पितरौ । संस्कृतपण्डितात् स्वमातुलादेव सः प्राथमिकशिक्षां अधिगतवान् । तर्कशास्त्रे पण्डितवरेण्यः कैक्कुळङ्ङर रामवार्यर् तथा पारक्कुळं सुब्रह्मण्यशास्त्री च तस्य गुरवौ ।
द्वादशे वयसि एव किरातशतकं नाम कश्चन मणिप्रवाळग्रन्थः अनेन विरचितः । महाकविना कुञ्ञिक्कुट्टन् तम्पुरान् महाभागेन सह परिचयमधिगतवान् सः त्रिश्शिवपुरे मङ्गलोदयं मासिक्याः प्रवर्तकः अभवत् । तत्रैव वसन् वाल्मीकिरामायणं कैरळ्यां अनूदितवान् । अस्मिन्नवसरे हन्त ! सः महानुभावः बधिरः सञ्जातः । अस्य बधिरविलापम् इति काव्यं स्वानुभवप्रतिपादकम् अतिरमणीयं च भवति। अनेकान् संस्कृतग्रन्थतल्लजानपि अनूदितवानयम् ।`

No comments:

Post a Comment